मजकुरावर जा
Other

मयूरेशस्तोत्रम्

१२ सप्टें, २०२६ 1 मिनिटे वाचन 0 वेळा पाहिले
मयूरेशस्तोत्रम् मुखपृष्ठ छायाचित्र

मयूरेशस्तोत्रम्

ब्रह्मोवाच

पुराणपुरुषं देवं नानाक्रीडाकरं मुदा ।

मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् ॥

परात्परं चिदानन्दं निर्विकारं हृदि स्थितम् ।

गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥

सृजन्तं पालयन्तं च संहरन्तं निजेच्छया ।

सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम् ॥

नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् ।

नानायुधधरं भक्त्या मयूरेशं नमाम्यहम् ॥

इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् ।

सदसद्व्यक्तमव्यक्तं मयूरेशं नमाम्यहम् ॥

सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् ।

सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम् ॥

पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् ।

भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम् ॥

मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम् ।

समाष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम् ॥

सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् ।

सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम् ॥

अनेककोटिब्रह्माण्डनायकं जगदीश्वरम् ।

अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम् ।

मयूरेश उवाच

इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रणाशनम् ।

सर्वकामप्रदं नृणां सर्वोपद्रवनाशनम् ॥

कारागृहगतानां च मोचनं दिनसप्तकात् ।

आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम् ॥

संबंधित लेख

अधिक शोधा

अधिक वाचनासाठी लेख